अद्य आवयोः कन्या ज्वलिता रात्रौ शयमाना पुस्तकम् पठति स्म। तस्याः प्रकोष्ठे ऊर्धवं स्तिथः एकः दीपः अस्ति (bulb on the ceiling)। किञ्चित् काल-पूर्वं तस्याः माता मीता ताम् एकं पटलदीपम् (table lamp) अददात् किन्तु ज्वलिता तम् पटलदीपकम् अन्यत्र स्थापितवान्। यदा मीता ज्वलितां पठन्ती अपश्यत् तदा सा अकथयत् – कुत्र तव पटलदीपः इति। ज्वलिता अकथयत् – मह्यं पटलदीपः न रोचते इति। तत् श्रुत्वा मीता ज्वलितायै क्रुध्यति स्म – कथं न रोचते? न रोचनाय कीमपि कारणं भवितव्यम्।
इदं सर्वं श्रुत्वा मम मनसि भावः उतपतत् – अपि सा स्वयं यत् वदति तत् शृणोति अथवा न शृणोति। यदापि अहं तस्याः कारणं पृच्छमि तदा सा मह्यं कुप्यति किन्तु ज्वलितया कारणं दातव्यमेव। अहो विचित्रः अयं संसारः।
२००८-०१-३१ गुरुवासरः (2008-01-31 Thursday)