वडोदरानगरं प्राप्तम् (Reached Vadodara)
December 31, 2007 — Himanshu Potaअद्य अहं शुचितया सह गुजरात-एक्स्प्रेस नाम संयाने (in train) मुम्बईनगरतः वडोदरानगरम् आगतवान्। संयानम् आवयोः दादर-स्थलात् प्राप्तवन्तौ। यदा तत्र प्रातः षड्वादने आगच्छतां तदा तत्र कोऽपि अधिकारी अथवा संयानं कुत्र आगमिष्यति अस्माकं कक्षः कुत्र भविष्यति इति सूचना नासीत्। कोऽपि भारवाहकः अपि नासीत्। सर्वं दृष्ट्वा शुचिता माम् अकथयत् - आवां संयाने आरोहितुं शक्ष्यतः अथवा न शक्ष्यतः तत् आवयोः भाग्ये एव अस्ति इति। किन्तु आवयोः भाग्यात् किञ्चित् नित्ययात्रीनः आसन् याः आवां कक्षः कुत्र आगमिष्यति इति सूचनां अददत् तस्मात् आवां संयाने सुखेन आरोहताम्।
२००७-१२-३१ सोमवासरः (2007-12-31 Monday)