यात्रा आरब्धवान् (Journey Started)
अद्य प्रातः सार्धनववादने मम सार्ध-एकमासस्य यात्रा आरब्धवान्। प्रथमं तु अहं अमेरिकादेशं गमिष्यामि तत् परं भारतदेशम्। आगामिनः जनवरीमासस्य मध्ये केन्बरानगरं पुनः प्राप्स्यामि।
२००७-११-३० शुक्रवासरः (2007-11-30 Friday)
अद्य प्रातः सार्धनववादने मम सार्ध-एकमासस्य यात्रा आरब्धवान्। प्रथमं तु अहं अमेरिकादेशं गमिष्यामि तत् परं भारतदेशम्। आगामिनः जनवरीमासस्य मध्ये केन्बरानगरं पुनः प्राप्स्यामि।
२००७-११-३० शुक्रवासरः (2007-11-30 Friday)
अव्यवहितम् इति अव्यवधानम्। तयोः अर्थः अस्ति किमपि मध्ये नास्ति। यथा पूर्ण इति शब्दे रः परे अव्यवहितं ण् इति अस्ति।
रामः श्यामस्य अव्यवहितः तिष्ठति। रामसीतयोः व्यवधाने लक्ष्मणः अस्ति। कृष्णराधयोः व्यवहिते अनेकाः भार्याः सन्ति।
२००७-११-२९ गुरुवासरः (2007-11-29 Thursday)
संन्यासी अतति। यः अतति सः मोहितः न भवति। नारदः पुरा सर्वस्मिन् लोके आत। यद्यपि अस्माकं देहं न अतति किन्तु मनः अतति। तेन मनसा अत्यते।
२००७-११-२८ बुधवासरः (2007-11-28 Wednesday)
शुचिता सामान्यतः विद्यालयं गमनाय सर्वयानम् उपयुञ्क्ते किन्तु अद्य सा अकथयत् – अहं विद्यालये अर्धहोरापर्यन्तमेव भविष्यामि कथं न भवान् मया सह आगच्छति मां पुनः गृहं नयति च इति। मया स्वीकृतम्। प्रत्यागन्तुं समये सा माम् अकथयत् – अद्य मम विद्यालये अन्तिमदिवसः आसीत् इति।
२००७-११-२७ मङ्गलवासरः (2007-11-27 Tuesday)
सा उद्याने अटति। सायंकाले अहमपि उद्याने अटिष्यामि। सः ह्यः आपणे आटत्। यदि सः ह्यः आपणे न आटिष्यत् तर्हि सः अद्य क्लान्तः न अभविष्यत्। रामः अयोध्यायाम् आट। सः अद्य गृहम् आटीत्।
२००७-११-२६ सोमवासरः (2007-11-26 Monday)
अद्य प्रातः सार्धनववादने मन्दिरस्य कारिणी-समित्याः मन्त्रणम् आसीत्। अहं सचिवः अस्मि तस्मात् मया तस्मिन् मन्त्रणम् गन्तव्यम्। सामान्यतः मन्त्रणे किमपि नवीनं न भवति। ये कार्यं कुर्वन्ति ते अधिकं कार्यं स्वीकुर्वन्ति किन्तु ये कार्यं न कुर्वन्ति ते किमपि कार्यं न स्वीकुर्वन्ति। अहो आश्चर्यम्! यदापि कस्मै कार्याय उत्तरदायकस्य प्रश्नः उद्भवति तदा अकार्यकर्तारः कुशलतया अपदेशं (excuse) ददति – अस्मिन् वारे न कर्तुं शक्नोमि आगामिनि वारे अवश्यं करिष्यामि इति। किन्तु आगामी वारः कादापि न आगच्छति। प्रत्येकस्य मन्त्रणस्य परम् अहं चिन्तयामि – मन्त्रणस्य कः लाभः कालहानिः एव इति।
२००७-११-२५ रविवासरः (2007-11-25 Sunday)
अद्य औस्ट्रेलियादेशे लोकसभायाः निर्वाचनम् अभवत्। निर्वाचनस्य परिणामः मत्कृते अत्यानन्दायिकः अस्ति। अद्य सर्वकारस्य परिवर्तनम् अभवत्। निर्वाचने जोन-हावर्डः नाम प्रधानमन्त्री पराजीयत (In the election John Howard was defeated)। सः लोकसभायाः स्वसदस्यतायाः निर्वाचने अपि पराजितः अभवत् (He even lost his seat in the parliament)। मेक्सीन्-मेक्यू नाम दूरदर्शन-प्रस्तुतकर्ता तं पराजयत्।
२००७-११-२४ शनिवासरः (2007-11-24 Saturday)
सः कृष्णम् अञ्चति। अपि भवान् स्वभार्याम् अञ्चिष्यति। मोहनः स्वभार्यां न आञ्चत् तस्मात् सः अतिदुखितः अभवत्। तेन स्वपितरौ अञ्च्यते।
२००७-११-२३ शुक्रवासरः (2007-11-23 Friday)
दशरथः रामम् अनक्ति इति सर्वं मन्यन्ते। सः अञ्जिष्यति इति ते आशसन्ते। किन्तु रामः दशरथेन न अज्यते। दशरथः रामं न आनग् (anointed) इति सर्वे जानन्ति।
२००७-११-२२ गुरुवासरः (2007-11-22 Thursday)
अयं मार्गः अग्रं गत्वा अङ्कते। सः पत्रं अङ्कते। अहं स्वप्रसेवम् अङ्किष्ये।
२००७-११-२१ बुधवासरः (2007-11-21 Wednesday)