अजन्तपुँल्लिङ्गाः – ५ (Vowel ending masculines – 5)

अहं मन्ये ह्यः प्रथमवारे आचार्यः श्रीनिवासवर्यः विलम्बितः अभवत्। सः किञ्चित् औषधं स्वीकरोति तस्मिन् औषधे निद्रायाः औषधमपि अस्ति ।  तस्मात् सः विलम्बेन उदतिष्ठत् ।  तत्रापि केवलं दशकलायाः विलम्बः (ten minutes delay) अभवत्। ह्यः वयं अधोलिखितानि सूत्राणि अपठाम ।
ङेर्यः ७।१।१३
स्थानिवदादेशोऽनल्‍विधौ १।१।५६॥ रामाय। रामाभ्याम्।
बहुवचने झल्येत् ७।३।१०३॥ रामेभ्यः।
वाऽववाने ८।४।५६॥ रामात्, रामाद्। रामाभ्याम्।
ओसि च ७।३।१०४॥ रामयोः।
ह्रस्वनद्यापो नुट् ७।१।५४॥
नामि ६।४।३॥ रामाणाम्। रामे। रामयोः।
आदेशप्रत्यययोः ८।३।५९॥ रामेषु।
२००७-१०-२८ रविवासरः (2007-10-28 Sunday)

About these ads