इष्टिकाः अन्ते मन्दिरं गच्छन्ति (Bricks finally go to the temple)

द्वि-त्रिवर्षपूर्वम् अस्माभिः गृहस्य बहिस्थिते उद्याने किञ्चित् निर्माणकार्यं कृतम्। कार्यं पूर्णे गते काचित् इष्टिकाः अवशेषाः आसन्। ताः इष्टिकाः एकस्मिन् स्तूपे गृहस्य बहिः आसन्। सर्वे जनाः पृच्छन्ति – तासाम् इष्टिकानां किं करिष्यसि। पुनः कथयन्ति – कंचित् देहि अथवा क्रिणीहि। अहम् अलसप्रधानः जीवः अस्मि तस्मात् मया किमपि न कृतम्।

अस्माकं मन्दिरे वयं आगामिनीषु नवरात्रिषु दुर्गासप्तशतिपाठं यज्ञः च करिष्यामः। यज्ञाय नव हवन-कुण्डानि निर्मियन्ते। तेभ्यः यदा इष्टिकाः वाञ्छति तदा कोऽपि स्मरति अस्माकं गृहे इष्टिका-स्तूपः अस्ति, सः मां पृच्छति अपि वयं ताः इष्टिकाः दास्यामः इति। मया उक्तं – यदि तस्याः इष्टिकायाः कोऽपि अन्यः भद्रः उपयोगः स्यात् तर्हि मां कथयतु। अहम् अत्यन्तः आनन्दितः अस्मि यतो हि ताः इष्टिकाः हवन-कुण्डे स्थास्यन्ति।

२००७-१०-०६ शनिवासरः (2007-10-06 Saturday)

Leave a Reply