हितोपदेशे संधिः इति भागे षष्ठीकथायाम् अस्ति – इत्यालोच्य स कुलीरस्तस्य ग्रीवां चिच्छेद (Having considered this that crab cut his throat)। चिन्तयित्वा इति स्थाने आलोच्य इति अपि उपयोक्तुं शक्यते।
२००७-१०-३१ बुधवासरः (2007-10-31 Wednesday)
हितोपदेशे संधिः इति भागे षष्ठीकथायाम् अस्ति – इत्यालोच्य स कुलीरस्तस्य ग्रीवां चिच्छेद (Having considered this that crab cut his throat)। चिन्तयित्वा इति स्थाने आलोच्य इति अपि उपयोक्तुं शक्यते।
२००७-१०-३१ बुधवासरः (2007-10-31 Wednesday)
आङ्ग्लभाषायां अनेकानि लघुवाक्यानि (phrases) सन्ति। तेषाम् three sheets to the wind इति अस्ति एकं लघुवाक्यं यस्य अर्थो मया न ज्ञातः । तस्यार्थोऽस्ति येन मद्यं पीतम् (drunk – After the party he was three sheets to the wind.)।
२००७-१०-३० मङ्गलवासरः (2007-10-30 Tuesday)
वयम् आचार्येण श्रीनिवासवर्येण सह लघुसिद्धान्तकौमुद्या-अभ्यासं कुर्मः। गतसप्ताहे सः उपान्यस्यत् (suggested) अस्माभिर्गद्य-पाठोऽपि कर्तव्य इति । अस्मात् सप्ताहाद् वयं द्वितीयं पाठं रविवासरे आरब्धवन्तः। तस्मिन् पाठ्यक्रमे इदानीं वयं चन्द्रापीडचरितम् इति पठामः। ह्यस्तने पाठे अहम् आचार्यवर्यश्च आस्वः।
ह्यस्तनस्य पाठस्य अन्तिमवाक्यम् अस्ति – अवितथफलाश्च प्रायो निशावसानसमयदृष्टा भवन्ति स्वप्नाः इति (Normally the dreams seen when the night ends come true.)।
चन्द्रापीडचरितम् इति पुस्तकस्य गद्यम् अति रुचिकरम् अस्ति।
२००७-१०-२९ सोमवासरः (2007-10-29 Monday)
अहं मन्ये ह्यः प्रथमवारे आचार्यः श्रीनिवासवर्यः विलम्बितः अभवत्। सः किञ्चित् औषधं स्वीकरोति तस्मिन् औषधे निद्रायाः औषधमपि अस्ति । तस्मात् सः विलम्बेन उदतिष्ठत् । तत्रापि केवलं दशकलायाः विलम्बः (ten minutes delay) अभवत्। ह्यः वयं अधोलिखितानि सूत्राणि अपठाम ।
ङेर्यः ७।१।१३
स्थानिवदादेशोऽनल्विधौ १।१।५६॥ रामाय। रामाभ्याम्।
बहुवचने झल्येत् ७।३।१०३॥ रामेभ्यः।
वाऽववाने ८।४।५६॥ रामात्, रामाद्। रामाभ्याम्।
ओसि च ७।३।१०४॥ रामयोः।
ह्रस्वनद्यापो नुट् ७।१।५४॥
नामि ६।४।३॥ रामाणाम्। रामे। रामयोः।
आदेशप्रत्यययोः ८।३।५९॥ रामेषु।
२००७-१०-२८ रविवासरः (2007-10-28 Sunday)
To view correctly please choose: View -> Encoding -> UTF-8.
निवेदयिष्यतः (निविद् धा. णिच्-प्र. शत्-प्र., निवेदयिष्यत् पु. एक. – one who was made to inquire), तस्य (तत् पु. एक. .- his)
अधिकरणकारकम् -
सम्बोधनम् –
अव्ययम् – न – not, हि, मृषा – false, प्रवक्तुम् (प्रवद् धा. तुमुन्-प्र. – speak)
धातुः – विव्यथे (व्यथ् लिट्. प्र. एक. – troubled), इच्छन्ति (इच्छ् लट् प्र. बहु. desire)
लोकसंस्कृतम् पत्रिकायां पिपीलिकाः नाम एका वार्ता अपठम्। तस्यां वार्तायाम् अधोलिखितानां शब्दानाम् अर्थम् अहं न अजानम्।
उपधौ – on a seat – मया प्रतीयते उपधि इति शब्दः उपधृ (उपधरति – supports, holds) धातोः अजायत्।
तैलपः – cockroach
उत्तानः – lying on the back face up – उत् + तन् इति तस्य व्युत्पत्तिः, उत्तानः इति stretched इत्यर्थे अपि भवति।
महार्घः – very valuable – महा + अर्घः
स्तूपीकृत्य – piled in a heap
तूर्णम् – quickly, speedily
२००७-१०-२७ शनिवासरः (2007-10-27 Saturday)
शतेभ्यः संवत्सरेभ्यः अपि पूर्वं भारतदेशस्य पूर्वभागात् अनेके लोकाः फिजीदेशम् अगच्छन्। ते तुलसीदासकृतं रामचरितमानसं तैः सह अनयन्। तस्मात् फिजीदेशे अनेकाः रामायण-मण्डल्यः सन्ति। केन्बरानगरे अपि फिजीदेशात् आगतानां भक्तानाम् एका रामायण-मण्डली अस्ति। मण्डल्याः सर्वे भक्ताः मन्दिरस्य सदस्याः सन्ति किन्तु तेषां रामकथासम्बन्धिषु कार्यक्रमेषु विशेषः रुचिः अस्ति। अद्य ते मन्दिरे रामचरितमानसस्य पाठम् अकुर्वन्। मह्यं तैः कृतः पाठः अतीव अरोचत । पाठात् परम् अहम् आनन्दितः सन् रात्रौ सार्धनववादने गृहं प्रत्यागच्छम्।
२००७-१०-२६ शुक्रवासरः (2007-10-26 Friday)
यस् इति दिवादिगणीयः परस्मैपदी धातुः अस्ति। तस्मात् प्रयासः इत्यादयः शब्दाः जायन्ते।
कर्तरि – अहं संस्कृतं शिक्षणाय (for learning) यस्यामि। त्वमपि यस्य। सः अपि यस्यतु।
कर्मणि – मया संस्कृतं शिक्षणाय यस्यते। त्वया अपि यस्यते। तेन अपि यस्यते।
यत् इति भ्वादिगणीय आत्मनेपदी धातुः अस्ति। तस्मात् प्रयत्नः इत्यादयः शब्दाः जायन्ते।
कर्तरि – सः गमनाय यतते। गीतायां – यतते च ततः भूयः।
कर्मणि – तेन गमनाय यत्यते।
२००७-१०-२५ गुरुवासरः (2007-10-25 Thursday)
गवेष् (to seek, search, or inquire) भ्वादिगणीयः आत्मनेपदी धातुः अस्ति। सः कुञ्चिका गवेषते।
सः अनुसंधानं करोति इति He does researchअर्थे भवति।
सा आविष्करोति इति She inventsअर्थे भवति।
आविष्कृ धातोः उत्पादनं कदाचित् विद् धातोः अभवत्। विद् तत् परम् आविद् आविस् आविष् आविष्कृ इति।
शोधति इति मार्जयति शुद्धीकरोति इति अर्थे भवति किन्तु इदानीं शोधति इति अनुसंधानं करोति अर्थे अपि प्रयुज्यते तथा शोधपत्रम् research paper-इति भवति।
२००७-१०-२४ बुधवासरः (2007-10-24 Wednesday)
प्राणो ह सत्यवादिनमुत्तमे लोक आदधत्॥ अथ. ११।६।११॥
यः सत्यं वदति तम् सत्यवादिनं प्राणः/श्वासः उत्तमलोके आधारं ददाति।
Breath provides support in the highest worlds for him who speaks the truth.
२००७-१०-२३ मङ्गलवासरः (2007-10-23 Tuesday)