गृहे अतिष्ठम् (Stayed Home)
अद्य मया गृहे स्थात्वा कार्यं कृतम्। यदा आवयोः कन्या शुचिता तत् अजानत् सा अपृच्छत् – कथं भवान् गृहे आसीत् इति। मया उक्तम् – यतो हि गृहे कापि बाधा विना कार्यं कर्तुं शक्नोमि इति। सा अकथयत् – कीदृशं भवतः कार्यालयं यत्र कार्यकराः कार्यमेव न कर्तुं शक्नुवन्ति। कथं तत् कार्यालयम् इति कथ्यते।
२००७-०८-२१ मङ्गलवासरः (2007-08-21 Tuesday)