Updates from July, 2007 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 1:05 pm on July 21, 2007 Permalink | Reply  

    अथ हल्-सन्धिः (Here starts the hal-sandhi) 

    अद्य श्रीनिवासवर्येण http://srinilakshmi.wordpress.com/2007/07/10/ हल्-सन्धिः प्रकरणः आरब्धम्। अद्य वयं त्रयः – श्रीनिवासः शङ्करः अहं च – छात्राः एव आसन्। सः इमानि सूत्राणि अपाठयत् – स्तोः श्चुना श्चुः ८।४।४०॥ शात् ८।४।४४॥ ष्टुना ष्टुः ८।४।४१॥ न पदान्ताट्टोरनाम् ८।४।४२॥ तोः षि ८।४।४३॥ झलां जशोऽन्ते ८।२।३९॥ यरोऽनुनासिकेऽनुनासिको वा ८।४।४५॥

    २००७-०७-२१ शनिवासरः (2007-07-21 Saturday)

     
    • hnbhat 12:36 am on June 15, 2011 Permalink | Reply

      हल्-सन्धिः प्रकरणः आरब्धम्।

      अत्र हल्सन्धिप्रकरणमारब्धमिति वा हल्सन्धिः आरब्ध इति वा हल्सन्धेः प्रकरणमारब्धमिति वा साधुतरम्।

      प्रकरणशब्दस्य नपुंसकलिङत्वात्, लिङगान्वयः दुर्वारः।

  • Himanshu Pota 1:03 pm on July 20, 2007 Permalink | Reply  

    शीतः माम् अनुसरति (The cold follows me) 

    गत द्वयोः सप्ताहयोः (in the last two weeks) अहं केन्बरानगरतः उत्तरदिशायाम् अगच्छं यतो हि उष्णे स्थाने स्थास्यामि इति अचिन्तयम्। किन्तु गतसप्ताहे केन्सनगरे अस्मिन् सप्ताहे सिडनीनगरे अपि प्रचुरः शीतः आसीत्। किं करणीयं शीतः मम अनुसरति तेन सह मित्रता एव करणीयम्।

    २००७-०७-२० शुक्रवासरः (2007-07-20 Friday)

     
    • jejo 11:35 pm on June 21, 2009 Permalink | Reply

      pl can you tell the translation in hindi so that we can understand it better

    • jejo 11:36 pm on June 21, 2009 Permalink | Reply

      pl explain the translation

    • Anil Kumar 5:49 am on June 28, 2009 Permalink | Reply

      An attempt at English translation:

      गत द्वयोः सप्ताहयोः (in the last two weeks) अहं केन्बरानगरतः उत्तरदिशायाम् अगच्छं यतो हि उष्णे स्थाने स्थास्यामि इति अचिन्तयम्।
      In the last two weeks I went north of Canberra city, thinking there should be warmer places there.

      किन्तु गतसप्ताहे केन्सनगरे अस्मिन् सप्ताहे सिडनीनगरे अपि प्रचुरः शीतः आसीत्।
      But last week Sydney was also very cold.

      किं करणीयं शीतः मम अनुसरति तेन सह मित्रता एव करणीयम्।
      What can I do if cold has befriended me and following me?

  • Himanshu Pota 1:23 pm on July 19, 2007 Permalink | Reply  

    संस्कृत-शिक्षणाय सहायकाः (Helpful aids in learning Sanskrit) 

    अनयोः जालपत्रयोः रत्नभण्डारः अस्ति।

    http://sanskrit.inria.fr/sanskrit.html, http://sanskrit.jnu.ac.in/index.jsp

    अद्य अहं तावान् इति शब्दः अपठम्। तस्य अर्थः कः अस्ति इति न अजानम्। तदा http://sanskrit.inria.fr/DICO/index.html गत्वा search for inflected formsस्थाने तावान् इति दत्तवान् उत्तरं च प्राप्तवान् – तावान् इति तावत् शब्दस्य प्रथमाविभक्याः एकवचनस्य रुपमस्ति। इदं कीदृषं लाभकरमस्ति तस्य वर्णनम् अहं कर्तुं न शक्नोमि।

    अनुवादार्थे कृपया पश्यतु – http://spokensanskrit.de/index.php

    यदि भवता सकाशे अयं शब्दकोशः नास्ति तर्हि भवता शीघ्रातिशीघ्रं तत् गृहितव्यः http://members.chello.nl/l.bontes/sans_n.htm। अधिकाधिकः भवन्तं तत् स्थापनाय दश-पञ्चादश कला भविष्यन्ति। यदि कापि बधा भविष्यति तर्हि मम सम्पर्कः करोतु।

    अन्यान् सहायकरान् पश्यतु – http://www.ee.adfa.edu.au/staff/hrp/personal/sanskrit/index.html

    २००७-०७-१९ गुरुवासरः (2007-07-19 Thursday)

     
    • Subhash Chandra 12:15 am on August 2, 2007 Permalink | Reply

      अतीव शोभनम्

    • Subhash Chandra 12:19 am on August 2, 2007 Permalink | Reply

      अहम् इदानीम् पी.एच.डी. करोमि । मम विषयोऽस्ति “Sentence validation System for Sanskrit” प्रथमे अहं सामान्य ontology करिष्यामि तदुपरान्ते आकाङ्क्षा योग्यता निर्धारणम् करिष्यामि । यदा एतद् कार्यम् पूर्णो भविष्यति तदा एषः कार्यः http://sanskrit.jnu.ac.in इति जालपत्रे भविष्यति।
      धन्यवादः

    • sahib singh 8:53 pm on April 9, 2009 Permalink | Reply

      aapak ka prayas shobhnam hai badhai ho

    • sahib singh 8:56 pm on April 9, 2009 Permalink | Reply

      bhavtam pryasm shobhnam asti agre api karyam kurventu dhnyavada

  • Himanshu Pota 11:58 am on July 18, 2007 Permalink | Reply  

    निर्मा धातुः (nirmaa – to build, measure) 


    मा धातुः (to measure) अदादिगणीयः परस्मैपदी जुहोत्यादिगणीयः आत्मनेपदी च स्तः। किं सरलं भवति इति दृष्ट्वा अदादिगणीयस्य धातवः उपयोगः कर्तुं शक्यते।

    सः तस्य मार्गस्य परिमाणं माति। सः अन्यस्य मार्गस्य परिमाणं श्वः मास्यति।

    तस्य कर्मणि प्रयोगः अस्ति – तेन तस्य मार्गस्य परिमाणं मीयते।

    सः तं मापयितुम् तत्र गच्छति (He goes there to make him measure)। सः अत्र मातुम् आगच्छति। सः परिमाणं मित्वा विश्रामं करोति।

    निर्मा धातुः निर्माणस्य अर्थे अस्ति।

    सः तस्य भवनं निर्माति। सः मम भवनमपि निर्मास्यति। अपि सः तव भवनम् निरमात्।

    जुलै-२००७-मासस्य चन्दमामायाः आगरादुर्गम् इति लेखात् इमानि वाक्यानि सन्ति।

    सः रक्तशिलाभिः तत् पुनः निर्मापितवान्। अकबरेण आगरातः ३६ कि.मी. दूरे फतेहपुरसिक्रि इत्यत्र अपरं दुर्गं निर्मापितम्। जहाङ्गिरेण देहल्या रक्तदुर्गं जामामसिदिभवनं यमुनातीरे ताजभवनं च निर्मापितम्।

    २००७-०७-१८ बुधवासरः (2007-07-18 Wednesday)

     
  • Himanshu Pota 12:06 am on July 17, 2007 Permalink | Reply  

    सिडनीनगरम् अगच्छम् (Went to Sydney) 

    मम एकः सहकर्मी (colleague) सुनीलः सिडनीनगरम् आगच्छम्। तेन सह किञ्चित् कार्यं कर्तुम् अहम् अद्य सिडनीनगरम् आगच्छम्। प्रातः अष्टवादने गृहात् निर्गत्य एकादशवादने विश्वविद्यालयं प्राप्तम्। अहं सुनीलम् एकं वर्षं परम् अमिलं किन्तु यावत् (as soon as) अहं तत्र प्राप्तं सुनिलः कार्यस्य आरम्भम् एव अकरोत्। तस्यः कार्यनिष्ठा अद्वितीया अस्ति। किञ्चित् कार्यं कृत्वा सः परिवारस्य समाचारम् अपृच्छत्।

    २००७-०७-१७ मङ्गलवासरः (2007-07-17 Tuesday)

     
  • Himanshu Pota 12:05 am on July 16, 2007 Permalink | Reply  

    अभ्यासः (Practice) 

    अभ्यासो न हि त्यक्तव्योऽभ्यासो हि परं बलम्।

    अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम्।

    अयं श्लोकः श्रीसदानन्दवर्येण मां कथितम्। अस्मिन् श्लोके का शिक्षा अस्ति। प्रथमं तु अभ्यासः इति पुंलिङ्गान्तः शब्दः अस्ति। द्वितीयम् अभ्यासो न हि त्यक्तव्यः इति कर्मणि प्रयोगः अस्ति। भवन्तः पाठकाः मां कथयन्तु यदि अस्मिन् श्लोके अन्यापि कापि शिक्षा अस्ति।

    २००७-०७-१६ सोमवासरः (2007-07-16 Monday)

     
  • Himanshu Pota 12:03 am on July 15, 2007 Permalink | Reply  

    परीक्षापत्रम् (Test paper) 

    ह्यः अस्माकं लघुसिद्धान्तकौमुदी-पाठः आसीत्। श्रीनिवासवर्यः अस्मान् परीक्षापत्रं http://srinilakshmi.wordpress.com/2007/07/09/ अकारयत्। परीक्षापत्रं कृत्वा अहं मन्ये मम अवबोधनं (understanding) किञ्चित् अधिकम् अभवत्। अनुशीलनस्य (of practice) अनेकाः लाभाः सन्ति। यदा वयं सूत्राणि अवागच्छाम तदा तस्य आनन्दः भिन्नः एव अस्ति। तस्मात् ये व्याकरणं अभ्यस्यन्ते ते तेन आसक्ताः भवन्ति।

    २००७-०७-१५ रविवासरः (2007-07-15 Sunday)

     
  • Himanshu Pota 12:20 am on July 14, 2007 Permalink | Reply  

    सरलीकरोति (Makes it Easy) 

    मया श्रीसदानन्दवर्यः पृष्टः – सरलीकरोति इति कथं भवति।

    सः प्रत्यावदत् – सरलीकरोति This may be termed as denominative नामधातुः। Denominative verbs are derived from nouns through affixation. Some of the examples of denominative verbs in English would include expressions like ´´to chicken out´´, ´´vaporize´´, to table a motion´´, ´´ to Americanize´´, etc. Here the basic element is a noun, which has been pressed into extended service as a verb. In Sanskrit there are various different kinds of denominative verbs. Some examples are: पुत्रीयति कृष्णायते पण्डितायते गरुडायते लोहितायते नमस्यति-नमस्यते इत्यादिनि।

    The following type is strictly speaking not a denomintive verb, but a type of compunding with a verb. However, since it is functionally related, it may be called so.

    शुक्लीकरोति गंगीकरोति लघूकरोति लघूभवति गंगीभवति अंगीकरोति पर्वतीकरोति स्वर्गीभवति इत्यादिनि अनेकानि उदाहराणि भवन्ति॥

    I hope it is clear to you.

    संप्रत्यत्र रात्रौ सपादैकवादनम्। शयनार्थं गन्तुकामोऽस्मि। तावत् शुभमस्तु।

    २००७-०७-१४ शनिवासरः (2007-07-14 Saturday)

     
    • Srinivasa 12:09 pm on July 17, 2007 Permalink | Reply

      असरलं सरलं करोतीति सरलीकरोति (च्वि प्रत्यय)

    • Srinivasa 2:13 am on July 18, 2007 Permalink | Reply

      Similarly, स्पष्टीकरोति etc

    • पंक्ज 6:01 am on July 19, 2007 Permalink | Reply

      शुक्रिया शुक्रिया आप सब का ।

      यह बलौग बहुत अच्छा है । मेरी एक प्रार्थना है आप सब से – जब भी आप संस्कृत लिखें, साथ में थोड़ी थोड़ी हिन्दी या अंग्रेजी में अनुवाद लिख दें ताकि सीखने में आसानी हो ।

  • Himanshu Pota 12:19 am on July 13, 2007 Permalink | Reply  

    मत्कृते (For me) 

    मया श्रीसदानन्दवर्यः पृष्टः – मत्कृते इति कथं भवति।

    सः प्रत्यावदत् – मत्कृते इति कृद् योगे षष्ठी इति उच्यते। मम कृते इति मत्कृते इति तु समानमेव। सः पुत्रस्य कृते पुस्तकं क्रीणाति। गुरुः छात्रस्य कृते अध्यापयति। इत्यादिनि वाक्यानि रचयितुं शक्यन्ते।

    २००७-०७-१३ शुक्रवासरः (2007-07-13 Friday)

     
  • Himanshu Pota 6:40 pm on July 12, 2007 Permalink | Reply  

    केन्बरानगरं प्रत्यागच्छम् (Returned to Canberra) 

    अद्य मया केन्सनगरात् विमाने पादोनषट्वादने सिडनीनगरम् डयितवान् तत् परं केन्बरानगरम्। पुनः शीतः पुनः बालकानां समस्या पुनः छात्राणां समस्या।

    २००७-०७-१२ गुरुवासरः (2007-07-12 Thursday)

     
c
compose new post
j
next post/next comment
k
previous post/previous comment
r
reply
e
edit
o
show/hide comments
t
go to top
l
go to login
h
show/hide help
shift + esc
cancel
Follow

Get every new post delivered to your Inbox.

Join 312 other followers