कीदृशः तर्कः (What logic!)
अद्य आवयोः कन्यायाः जन्मदिवसस्य उत्सवः आसीत्। सा तस्याः सखीन् चलचित्र-क्रीडाविपणिम् आगमनस्य निमन्त्रणम् अददात् (gave invitation to come to the video games shop)। आरम्भकालः पञ्चवादने आसीत्। तस्याः एका सखा सार्ध-पञ्चवादने आगच्छत्। मया तस्याः पिता पृष्टः – कथं विलम्बः अभवत्। सः अकथयत् – यतो हि आवां गृहात् पञ्चवादने निरगच्छाव (left home at five)। अयं कीदृशः तर्कः अस्ति अहं न जानामि।
२००७-०७-२८ शनिवासरः (2007-07-28 Saturday)