निर्मा धातुः (nirmaa - to build, measure)
July 18, 2007 — Himanshu Pota
मा धातुः (to measure) अदादिगणीयः परस्मैपदी जुहोत्यादिगणीयः आत्मनेपदी च स्तः। किं सरलं भवति इति दृष्ट्वा अदादिगणीयस्य धातवः उपयोगः कर्तुं शक्यते।
सः तस्य मार्गस्य परिमाणं माति। सः अन्यस्य मार्गस्य परिमाणं श्वः मास्यति।
तस्य कर्मणि प्रयोगः अस्ति - तेन तस्य मार्गस्य परिमाणं मीयते।
सः तं मापयितुम् तत्र गच्छति (He goes there to make him measure)। सः अत्र मातुम् आगच्छति। सः परिमाणं मित्वा विश्रामं करोति।
निर्मा धातुः निर्माणस्य अर्थे अस्ति।
सः तस्य भवनं निर्माति। सः मम भवनमपि निर्मास्यति। अपि सः तव भवनम् निरमात्।
जुलै-२००७-मासस्य चन्दमामायाः आगरादुर्गम् इति लेखात् इमानि वाक्यानि सन्ति।
सः रक्तशिलाभिः तत् पुनः निर्मापितवान्। अकबरेण आगरातः ३६ कि.मी. दूरे फतेहपुरसिक्रि इत्यत्र अपरं दुर्गं निर्मापितम्। जहाङ्गिरेण देहल्या रक्तदुर्गं जामामसिदिभवनं यमुनातीरे ताजभवनं च निर्मापितम्।
२००७-०७-१८ बुधवासरः (2007-07-18 Wednesday)