दृष्टिं न ददासि (Do not see me.)
मालविकाग्निमित्रम् नाम्नः कालिदासविरचितं नाटके प्रथमे अङ्के -सखि कौमुदिके, कुतस्त इयं धीरता। यत्समीपेनापि मामतिक्रामन्तीतो दृष्टिं न ददासि।
(Hola, Kaumudika, what makes you so serious that you do not see me although you pass so close to me?
गत सप्ताहे मया अस्मिन् वार्तापत्रे लिखितं कथं मम मित्रं मां अदृष्ट्वा माम् अत्यक्रामयत्। श्रीनिवासवर्यः (http://srinilakshmi.wordpress.com) तत् पठित्वा कालिदासविरचितं उपरिदत्तं वाक्यम् अदर्शयत्। श्रीनिवासवर्यस्य इच्छास्ति वयं कालिदास-इव लिखेम। अहम् इच्छामि तस्य इच्छा सार्थका भवेत्।
२००७-०६-२० बुधवासरः (2007-06-20 Wednesday)