नित्यवर्यस्य वंशी-वादनम् (Nitya’s Flute Concert)
अद्य सायंकाले सार्ध-सप्तवादने मन्दिरे नित्य-पार्करवर्यस्य वंशी-वादनस्य कार्यक्रमः आसीत्। प्रथमं तु अहं तस्मिन् कार्यक्रमे अगच्छम्। नित्यवर्यस्य वंशी-वादनम् अतीव-रञ्जकम् आसीत्। सः तस्य अनुष्ठानस्य नाम मनोरञ्जन इति (Colours of Mind) अददात्। तेन सह ऊर्ध्वके (on tabla) रोस-बिन्गमवर्यः तुम्बरे अर्चनावर्या च स्तः। (ऊर्ध्वकः तुम्बरम् च शब्दौ पृ १२८तः, संस्कृतस्य व्यावहारिकस्वरूपम्, डॉ-नरेन्द्रः, संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुदुच्चेरी।)
कार्यक्रमस्य मध्ये उत्थाय गृहं अधावं कौमुद्यां पाठे च किन्ञ्चित् विलम्बेन युक्तवान्। पाठः अस्माकं समये रात्रौ नववादने भवति।
२००७-०६-३० शनिवासरः (2007-06-30 Saturday)
श्रीनिवासकृष्णन 12:13 am on July 2, 2007 Permalink |
मन्दिरे अभिरूपभूयिष्ठा परिषदासीत् इति मन्ये। अस्याः श्रुतिप्रसादनाय पार्करवर्येण किं प्रस्तुतं? अपि अचिरप्रवृत्तं शरदृतुमधिकृत्य किंचिदपि वादितम्? कथमासीत् ऊर्ध्वकतुम्बरयोः सम्मिश्रणं वंशीवादनेन?
Himanshu Pota 9:35 am on July 3, 2007 Permalink |
श्रीनिवासवर्य,
पार्करवर्यः संगीतं स्वस्य आध्यातिमिकविकासाय उप्युज्ये तस्मात् तस्य अनुष्ठानं मन्दिरस्य अभिरूपमासीत्| अहं तानसेनः नास्मि किन्तु कर्णसेनः अस्मि तस्मात् अनुष्ठानस्य विवरणं न दातुं शक्नोमि| सः राग-यमनः राग-कल्याणि इत्यादयः रागान् वादितवान्|
धन्यवादः|
हिमांशुः|