गीतायां नव अध्यायाः स्मृत्याः (Nine Chapters of Gita from memory)

प्रातःकाले अहं स्मृत्याः (from memory) गीतायां गुणत्रयविभागयोग-नाम्नः चतुर्दशस्य अध्यायस्य पाठम् आरभे। तदन्तरं पुरुषोत्तमयोग-नाम्नः पञ्चदशोऽध्यायः, दैवासुरसंपदविभागयोग-नाम्नः षोडशोऽध्यायः, श्रद्धात्रयविभागयोग-नाम्नः सप्तदशोऽध्यायः, सन्यासयोग-नाम्नः अष्टादशोऽध्यायः, अर्जुनविषादयोग-नाम्नः प्रथमोऽध्यायः, सांख्ययोग-नाम्नः द्वितीयोऽध्यायः, कर्मयोग-नाम्नः तृतीयोऽध्यायः, ज्ञानकर्मसन्यासयोग-नाम्नः चतुर्थोऽध्यायः इति नव अध्यायानां पाठम् अकरवम्। सर्वान् पाठान् अहं यदा निजयाने कार्यालयं गच्छामि स्म गृहं प्रत्यागच्छामि स्म च तदा अकरवम्।

२००७-०५-३१ गुरुवासरः (2007-05-31 Thursday)

About these ads