ह्यः राजीवस्य अग्रजायाः पञ्चदशमस्य जन्मदिवसस्य उत्सवस्य परं अहं राजीवस्य गृहे असुप्तम्। अद्य राजीवः अस्माकं मित्रं विलियमः च भारतं गच्छतः। तयोः उड्डयनं सार्ध-एकादशवादने आसीत्। राजीवः प्रातः उत्थाय स्वकार्यम् आरब्धवान्। सः रक्तविशेषज्ञः अस्ति। भारतं गत्वा पूर्वं किञ्चित् रक्तपरीक्षा-परिणामान् दृष्ट्वा तेषाम् उपरि समाख्यानन् (reports) लिखितव्यम्। सः सार्धनववादनतः कार्यं अकरोत् तदा यात्रासामग्रीं बन्धनं अकरोत्। गृहात् बहिः निर्गमनस्य कालः पादोनदशवादनम्। यदा अहं विमानस्थलं प्रति यानं चालयामि तदा राजीवः कथयति इदानीम् अस्माभ्यां द्वौ चिकित्सालयौ गन्तव्यौ इति। कथं कोऽपि मानवः ईदृशः धीरजः धारयितुं शक्नोति अहं न जानामि। अन्ते आवां सपाददशवादने विमानस्थले प्राप्तवन्तौ। तत्र विलियमः अधीरात् राजीवस्य प्रतीक्षाम् करोति। तत्र अहं तौ – भवन्तौ यात्रा कुशला भवतु इति – उक्त्वा मम मित्रस्य विवेकस्य गृहम् अगच्छम्।
२००७-०३-२५ रविवासरः (2007-03-25 Sunday)
The phrase क्षेत्रक्षेत्रज्ञविभागयो नाम seems to be having some grammatical confusion. Maybe, ‘क्षेत्रक्षेत्रज्ञविभाग’-नाम्नः त्रयोदशस्य अध्यायस्य could be a better phrase.