यातयामं गतरसं पूति पर्युषितं च यत्।उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥
यातयामम् – यस्य कालं गतम्
पूति – दुर्गन्धितम्
उच्छिष्टम् – अवशेषम्
अमेध्यम् – अपवित्रम्
२००७-०२-२८ बुधवासरः (2007-02-28 Wednesday)
यातयामं गतरसं पूति पर्युषितं च यत्।उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥
यातयामम् – यस्य कालं गतम्
पूति – दुर्गन्धितम्
उच्छिष्टम् – अवशेषम्
अमेध्यम् – अपवित्रम्
२००७-०२-२८ बुधवासरः (2007-02-28 Wednesday)
सा दीपोत्सवं परिपालयति। परि + पाल् इति धातुः चुरादिगणीयः परस्मैपदी अस्ति।
२००७-१२-२८ शुक्रवासरः (2007-12-28 Friday)
अद्य अस्माकं सहकर्मी लीवर्यस्य कार्ये अन्तिमः दिवसः आसीत्। सः द्वाभ्यां वर्षाभ्यां पूर्वं लोस-एंजलनगरे स्थितः केलिफोर्निया-विश्वविद्यालयात् विद्यावाचस्पति-उपाधिं (PhD degree) लब्ध्वा शोधकार्याय अत्र आगच्छत्। सः अस्माभ्यां सह शोधम् अकरवम्। सः शोधकार्ये कुशलः अस्ति। अद्य मध्याह्ने अहं, वेलरीवर्यः, ईअनवर्यः च तेन सह भोजनं खदितुं एकं भोजनिलयम् अगच्छन्।गतमासे तयोः एकस्य पुत्रस्य जन्मः अभवत्। लीवर्यः इतः मेल्बोर्न-विश्वविद्यालयं गमिष्यति।
२००७-०२-२७ मङ्गलवासरः (2007-02-27 Tuesday)
गत शुक्रवारे २३-फरवरी-२००७-दिनाङ्के द्वौ-द्वौ श्लोकौ कुर्वन् अहं गीतायाः दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायम् कण्ठस्थः अकरवम्। तस्य गायनस्य अनुशीलनम् अपि करिष्यामि इति अधुना मन्ये।
२००७-०२-२६ सोमवासरः (2007-02-26 Monday)
गत गुरुवारे वयं सहकर्मिणः सर्वयाने (colleagues in a bus) सिडनीनगरम् अगच्छाम। मार्गे अहं लघुपुस्तिकायाः आकारे गीतायां श्लोकान् स्मर्तुं पठामि स्म। एकः सहकर्मी डगलसवर्यः मम निकषा आगत्वा अपृच्छत् – इयं पुस्तिका का अस्ति, अपि भवतः प्रार्थना पुस्तिका अस्ति इति। अहं अकथयम् – किं वदामि इयं प्रार्थना पुस्तिका अस्ति न वा अस्ति इति। सः पुनः अवदत् – अपि इयं गीता अस्ति इति। अहम् अतीवः विस्मितः अभवम् – सः कथं इदं जानाति। तदा सः अकथयत् – सः गत अष्टादशवर्षात् योगस्य अभ्यासं करोति इति। सः सारंगी (violin) वादयति। सारंगीसम्राट् यहूदी-मेनुइनः कुत्रापि अलिखत् यदि कोऽपि सारंगीवादने निपुणः भवितुम् इच्छति तर्हि योगस्य अभ्यासं कुरु। डगलसवर्यः यावत् द्वादशवर्षीयः आसीत् तावत् सः योगस्य अभ्यासं करोति। सः नित्यम् एकहोरा पर्यन्तं प्राणायामस्य हठयोगस्य च अभ्यासं करोति। तस्य भार्या आत्मबिन्दुवर्या सत्यानन्दयोगं शिक्षयति।
२००७-०२-२५ रविवासरः (2007-02-25 Sunday)
अद्य अहं पुनः पार्किन्सनवर्यस्य Mrs Parkinson’s Law and other studies in Domestic Science पुस्तके निबन्धाः अपठम्। अद्यावती समाजस्य सः अतीव सम्यग् चित्रं ददाति। यदा भवतः सकाशे कालं भविष्यति तदा पार्किन्सनवर्यस्य निबन्धाः आवश्यकमेव पठतु।
२००७-०२-२४ शनिवासरः (2007-02-24 Saturday)
अद्य सायंकाले यदा अहं कार्यालयात् गृहं गन्तुं उद्यतः अभवत् तदैव वर्शः आरब्धवान्। अहम् एकहोरा पर्यन्तं कार्यालये वर्षायाः विरामस्य प्रतीक्षाम् अकरवम्। अहं कार्यालयात् सङ्गणित्रं आनेतुम् एच्छम् तस्मात् वर्षायां कार्यालयात् यानस्थानं न गन्तुम् अशक्नवम्। केन्बरानगरे अतिन्यूनं वर्षति तस्मात् किमपि परिदेवना अपि न कर्तुम् अशक्नवम्।
२००७-०२-२३ शुक्रवासरः (2007-02-23 Friday)
अद्य अस्माकं परिसरस्य सहकर्मिणः सिडनीनगरं केन्सिंग्टन-उपनगरम् आगच्छन्। अत्र वयं अत्रस्थः शोधकाः किम् कुर्वन्ति तत् अजानीम। तेषां प्रोगशालानां भ्रमणम् अकुर्म। सायंकाले मम मित्रं राजीवं राजीवस्य मित्रं स्टीवं च अमिलम्। रात्रौ सिडनीनगरे एव अतिष्ठाम।
२००७-०२-२२ गुरुवासरः (2007-02-22 Thursday)
अद्य अस्माकं शोधकार्याय धनप्राप्ताय आवेदनस्य (applicaton to obtain research funds) अन्तिमः दिवसः आसीत्। अहं केन्बरानगरे अस्मि, एकः अन्यः आवेदकः सिडनीनगरे अस्ति, एकः अन्यः कुत्र भ्रमणं करोति अहं न जानामि सः केवलं विद्युत्पत्रस्य उत्तरं ददाति, एकः अन्यः डेलावेयरराज्ये अस्ति। यदापि अहं आवेदनलेखे किमपि संशोधनं करोमि तदा तान् प्रेषयामि तेषाम् उत्तराणां प्रतीक्षां च करोमि। अहं प्रायः सर्वं अकरवं किन्तु श्वः प्रातःकाले यदि ते पुनः संशोधनं प्रेषयिष्यन्ति तर्हि तान् आवेदनलेखे संयोजयिष्यामि।
२००७-०२-२१ बुधवासरः (2007-02-21 Wednesday)
अस्माकं मित्रम् श्रीविनोदवर्यः गतसप्ताहे दिवं गतः। तस्मात् तस्य गृहे तस्य परिजनाः सायंकाले भजनं कुर्वन्ति। अद्य आवामपि भजने अगच्छाव। अहं मन्ये भजनम् एकहोरा पर्यन्तं भविष्यति इति किन्तु भजनं द्वौहोरौ पर्यन्तम् अभवत्।
२००७-०२-२० मङ्गलावासरः (2007-02-20 Tuesday)