ज्वलितायाः उद्वहसङ्गणित्राय प्रयासाः (Jwalita’s efforts to keep laptop computer)
अद्य यदा अहं कार्यालये गन्तुं उपस्थानं करोमि स्म तदा अवयोः दशवर्षीया कन्या ज्वलिता माम् अपृच्छत् – अपि भवान् भवतः उदवहसङ्गणित्रं गृहे त्यक्त्वा कार्यालयं गन्तुं शक्नोति इति। अहं प्रत्यवदम् – तत् तु संभवं नास्ति। तदा सा अकथयत् – अपि भवान् कार्यालयम् अगत्वा गृहे एव कार्यं कर्तुं शक्नोति इति।
२००७-०१-३० मङ्गलवासरः (2007-01-30 Tuesday)