ओऽम्-प्रसाद-नय्यरवर्यः दिवं गतः (Om Prasad Nayyar Passes Away)
January 31, 2007 — Karthikओऽम्-प्रसाद-नय्यरवर्यस्य २८-जनवरी-२००७तमे दिवसे थाने-उपनगरे मुम्बई-नगरे अवसानमभवत्। सः असंख्यान् लोकान् आनन्दम् अददात्। तस्य संगीतकृतयः अमराः सन्ति। तस्य संगीतः मायिकः (magical) आसीत्। जीवनस्य परं भागे सः स्वकलयाः जीवनयापनं न कर्तुम् अशक्नोत् तदा सः समचिकित्सकः (homeopath) भूत्वा जीवनयापनम् अकरोत्। अवसाने तस्य वयः एकशीतिः (81) आसीत्। तस्य परिवारेण सह विवादः अभवत् तर्हि सः तस्य चर्चगेटस्थः स्वगृहं त्यक्त्वा पूर्वे तस्य मित्रेण सह विरार-उपनगरे वसति स्म किन्तु गतवर्षतः सः थाने-उपनगरे वसति स्म। सः तस्य अन्त्येष्टि-क्रियायां तस्य परिजनं निषेधितवान्।अहो मानवस्य जीवनयात्रा - कुत्र संगीत-सम्राट् ओपी नय्यर कुत्र समचिकित्सकः ओपी नय्यर कुत्र तस्य अवसानम्।
२००७-०१-३१ बुधवासरः (2007-01-31 Wednesday)