धम्मपदः – २ (Dhaammapada – 3)
भगवतः बुद्धस्य एकस्य उपदेशस्य संग्रहः धम्मपदः इति अभिधीयते। तस्मिन् त्रिविंशति-अधिक-चतुर्शतं श्लोकाः सन्ति। बुद्धानुयायिनः ते श्लोकाः गाथाः इति कथ्यते। बहवः श्लोकाः युगले (in pairs) सन्ति। यथाशुभमनुपश्यन्तं विहरन्तं इन्द्रियेषु असंवृतम्।
भोजनेऽमात्राज्ञं कुसीदं हीनवीर्यं।
तं वै प्रसहति मारो वातो वृक्षमिव दुर्बलम्॥१॥
He who, looking at beauty of forms wanders with unrestrained senses, doesn’t know the right quantity in eating, is lazy and coward him Mara conquers as the wind a weak tree.||1||
कुसीद – lazy, प्रसहति – conquers
अशुभमनुपश्यन्तं विहरन्तं इन्द्रियेषु सुसंवृतम्।
भोजने च मात्राज्ञं श्रद्धां आरब्धवीर्यम्।
तं वै न प्रसहते मारो वातः शैलमिव पर्वतम्॥२॥
He who, discerning the limitations of forms wanders with restrained senses, knows the right quantity in eating, is with faith and hard-working him Mara cannot conquer like wind the wind a stone mountain.॥२॥
२००६-०९-३० शनिवासरः (2006-09-30 Saturday)