शीतमञ्जूषा (Cold box)
अत्र ग्रीष्म-ऋतुः अस्ति प्रचण्डः तापः अपि अस्ति। किन्तु विश्वविद्यालये यस्मिन् प्रयोगशालायाम् अहं कार्यं करोमि सा शीतमञ्जूषा अस्ति। अहं तत्र स्वेदित्रं धारयामि। ह्यः कस्मात् कारणात् वातानुकूलः न चलति तस्मात् अहं ह्यः तत्र सुखेन अतिष्ठम्। शीतऋतोः मम विशेषः सम्बन्धः अस्ति इति मन्ये। केन्बरानगरस्य शीतः वारयितुम् अहम् अत्र उष्णस्थाने आगच्छं तदापि शीतः मां न त्यजति।
२००६-०७-२९ शनिवासरः (2006-07-29 Saturday)