अधुना संस्कृते अनेकानि उल्लेखपत्राणि (blogs) दृष्ट्वा अहं अत्यन्तः आनन्दितः भवामि। साईंवर्यः अनेकेभ्यः वर्षेभ्यः पूर्वेभ्यः विद्युत्प्रेषणेन (by e-mail) उल्लेखपत्रम् प्रेषयति (http://mailman.cs.utah.edu/mailman/listinfo/sanskrit)। तस्मिन् पत्रे अनेकाः पण्डिताः सामान्यजनाः अपि लिखन्ति। केचन् छात्राः एकं नवीनं प्रयोगम् आरब्धवन्तः – www.speaksanskirt.org।
तेभ्यः सर्वेभ्यः प्रयोगाः अत्यन्ताः प्रशंसनीयाः। मम एकम् अधिकं निवेदनम् अस्ति – कथम् इमानि पत्राणि देवनागरीलिप्याम् न लिखेयुः। संस्कृतं रोमनलिप्यां पठने अतीव कष्टः भवति। अधुना तु समलिप्यङ्कस्य (Unicode) प्रचुरः उपयोगः भवति तस्मात् जाल-पत्रे (in webpages) विद्युत्प्रेषणे (in e-mails) देवनागरीलिप्यां लिखनम् अतीव सरलः अस्ति। कृपया देवनागरीलिप्यां लिखन्तु।
संस्कृते कार्तिकवर्यस्य http://samskrtam.wordpress.com/, http://learnsanskrit.wordpress.com च उल्लेखपत्रे स्तः।
कृपया पश्यतु – http://www.ee.adfa.edu.au/staff/hrp/personal/Sanskrit-External/unicodenotes.html
२००६-०७-२२ शनिवासरः (2006-07-22 Saturday)