वितन्तुकेन जागरणसंकेतः (Radio Alarm)
आवयोः कनिष्ठा कन्या ज्वलिता नित्यं वदति – अहं सार्धषठ्वादने जागर्मि इति किन्तु कदापि न जागर्ति। सा कथयति – मया सकाशे किमपि जागरणसंकेतं (alarm) नास्ति तथा अहं कथम् जागृयाम्। गतसप्ताहे तस्याः भ्रातुः परीक्षां पूर्णम् अभवत् तथा सः स्वजागरणसंकेतं ताम् अददात्। ज्वलिता सार्धषठ्वादनस्य वितन्तुके (in the radio) संकेतं स्थापितवान्। विनोदेन तस्याः भगिनी वितन्तुके विशेषप्रसारणं (Special Broadcasting Service Station) योजितवान्। आगामि प्रातःकाले अपि सा न जागरितवती। तस्याः पर्यङ्कम् (bed) गत्वा अहं पृष्टवान् – त्वं कथं न जागृता असि। सा अकथयत् – यदा वितन्तुकः (radio) अध्वनत् तदा तस्मात् कश्चित् विदेशीयां भाषां कार्यक्रमम् आगच्छति। तत् श्रुत्वा अहं पुनः सुप्तवान्।
२००६-०१-२१ बुधवासरः (2006-06-21 Wednesday)