चुरादिगणीयः परस्मैपदी धातुः शील् अभ्यासे प्रयुज्यते। तथा अनुशील् पुनः पुनः अभ्यासे प्रयुज्यते।अहं संस्कृतं नित्यं शीलयामि। अपि भवान् संस्कृतं नित्यं शीलयति। यूयं सप्ताहे एकवारं योगासनं शीलयथ।
त्वं यमपि शिक्षितुम् इच्छसि तम् अनुशीलय। अनुशीलनं शिक्षणस्य मूलम्। मया अद्य प्राणायामं शीलितम्। सः तस्य गृह-पाठं शीलितवान्।
२००६-०६-३० शुक्रवासरः (2006-06-30 Friday)